Wednesday, 23 September 2015



प्रातिभासिकपदार्थविचारः


प्रातिभासिकपदार्थाः रज्जुसर्पशुक्तिरजतादयः।

ते मूलाविद्याकार्या वा तूलाविद्याकार्या वेत्यत्र मतद्वैविध्यम्।

तूलाविद्याकार्या इति पद्मपादाचार्याः।

तन्मते रज्ज्वाद्यधिष्ठानज्ञानेन सर्पाद्युपादानभूततूलाविद्यानिवृत्तॆः 

सर्पादिबाधः।

मूलाविद्याकार्या इति वाचस्पतिमिश्राः।


मूलाविद्या तु ब्रह्मज्ञाननाश्या। तस्मात् तन्मते रज्ज्वादिज्ञानेन

सर्पाद्युपादानभूतमूलाविद्यानाशासम्भवात् सर्पादिबाधो न स्यात्।