Saturday, 17 November 2018

भवानीकलत्रपञ्चकम्




परब्रह्मरूपं निरस्तप्रपञ्चं प्रकाशस्वरूपं सदाद्यन्तहीनम्।

तदेवाहमस्मीति जिज्ञासमानो भजेहं भवन्तं भवानीकलत्रम्॥१॥

रतिं को विमुञ्चेत् स्वदेहे स्वगेहे विना भक्तिभावं सुरेशे पवित्रम्।

कथं वा भवेदस्य शोकान्निवृत्तिर्भजेहं भवन्तं भवानीकलत्रम्॥२॥

विवेकं विरक्तिं रतिं चैव मुक्तौ शमादींस्तथा मोक्षमार्गे प्रवृत्तिम्।

ऋते यत्प्रसादान्नरो नैव विन्देद् भजेहं भवन्तं भवानीकलत्रम्॥३॥

गुरुं श्रोत्रियं ब्रह्मनिष्ठं प्रणम्य रहस्यं विदित्त्वा परब्रह्मतत्त्वम्।

विमुच्येत कस्तत्कृपालेशहीनो भजेहं भवन्तं भवानीकलत्रम्॥४॥

विदित्त्वा विशुद्धं गुणातीतरूपं तमात्मानमद्वैतबोधैकरूपम्।

विमुक्तो भवेयं विशोको विमोहो भजेहं भवन्तं भवानीकलत्रम्॥५॥