आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवलेत्यविद्या शुद्धचिदाश्रयेति सम्प्रदायविदां निर्णयः। तत्राविद्या जीवाश्रयेति केचिद् विवदन्ति। तथा सति जीवत्वमाविद्यकं वा वास्तवं वेति तैर्वक्तव्यम्। द्वितीये ब्रह्मज्ञानात् कैवल्यानुपपत्तिः। प्रथमे तु जीवत्वापादिकाविद्या आश्रिताविद्याया भिन्ना वाभिन्ना वा? अभिन्ना चेत् स्वाश्रयदोषः। भिना चेत् साप्यविद्या कस्मिन्नाश्रिता भवेत्? जीवे चेत् पूर्ववदेव विकल्पः। ब्रह्मणीति चेदेका जीवाश्रिता, अपरा च ब्रह्माश्रितेत्यविद्याद्वयं कल्पितं स्यात्। तत्र जीवाश्रिताया अविद्याया जीवत्वापादकत्वायोगाद् विद्यया तदपगमेपि जीवत्वनिवृत्त्ययोगान्न मुक्तिरिति व्यर्था तत्कल्पना। ब्रह्माश्रिता चाविद्या तदवच्छिन्ने ब्रह्मणि जीवत्वमापादयन्ती संसारनिदानत्वं भजते, विद्यया तन्नाशे जीवत्वापगमात् जीवस्य ब्रह्ममात्ररूपेणावस्थानान्मुक्तिरपि सिध्यतीति ब्रह्माश्रितैकैवाविद्योररीकार्या।
No comments:
Post a Comment