Sunday, 10 March 2024

Tattvaviveka Prakaranam (Panchadashi 1)

 

तत्त्वविवेक-प्रकरणम् (पञ्चदशी १)

 

नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने ।

सविलासमहामोहग्राहग्रासैककर्मणे ॥ १॥

 

तत्पादाम्बुरुहद्वन्द्वसेवानिर्मलचेतसाम्|

सुखबोधाय तत्त्वस्य विवेकोऽयं विधीयते ॥ २॥

 

शब्दस्पर्शादयो वेद्या वैचित्र्याज्जागरे पृथक् ।

ततो विभक्ता तत्संविदैक्यरूप्यान्न भिद्यते ॥३॥

 

तथा स्वप्नेऽत्र वेद्यं तु न स्थिरं जागरे स्थिरम्।

तद्भेदोऽतस्तयोः संविदेकरूपा न भिद्यते ॥ ४॥

 

सुप्तोत्त्थितस्य सौषुप्ततमोबोधो भवेत्स्मृतिः।

सा चावबुद्धविषयावबुद्धं तत्तदा तमः ॥ ५॥

 

स बोधो विषयाद् भिन्नो न बोधात्स्वप्नबोधवत्।

एवं स्थानत्रयेऽप्येका संवित्तद्वद्दिनान्तरे ॥ ६॥

 

मासाब्दयुगकल्पेषु गतागम्येष्वनेकधा ।

नोदेति नास्तमेत्येका संविदेषा स्वयंप्रभा ॥ ७॥

 

इयमात्मा परानन्दः परप्रेमास्पदं यतः ।

मा न भूवं हि भूयासमिति प्रेमात्मनीक्ष्यते ॥ ८॥

 

तत्प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनि ।

अतस्तत्परमं तेन परमानन्दतात्मनः ॥ ९॥

 

इत्थं सच्चित्परानन्द आत्मा युक्त्या तथाविधम्।

परं ब्रह्म तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते ॥ १०॥

 

अभाने न परं प्रेम भाने न विषये स्पृहा ।

अतो भानेऽप्यभाताऽसौ परमानन्दतात्मनः ॥ ११॥

 

अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत्।

भानेऽप्यभानं भानस्य प्रतिबन्धेन युज्यते ॥ १२॥

 

प्रतिबन्धोऽस्ति भातीति व्यवहारार्हवस्तुनि।

तं निरस्य विरुद्धस्य तस्योत्पादनमुच्यते ॥ १३॥

 

 तस्य हेतुः समानाभिहारः पुत्रध्वनिश्रुतौ ।

इहानादिरविद्यैव व्यामोहैकनिबन्धनम् ॥ १४॥

 

चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता ।

तमोरजःसत्त्वगुणा प्रकृतिर्द्विविधा च सा ॥ १५॥

 

सत्त्वशुद्ध्यविशुद्धिभ्यां मायाऽविद्ये च ते मते ।

मायाबिम्बो वशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः ॥ १६॥

 

अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा ।

सा कारणशरीरं स्यात्प्राज्ञस्तत्राभिमानवान् ॥१७॥

 

तमःप्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया ।

वियत्पवनतेजोऽम्बुभुवो भूतानि जज्ञिरे ॥ १८॥

 

सत्त्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् ।

श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते ॥ १९॥

 

तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद्द्विधा ।

मनो विमर्शरूपं स्याद् बुद्धिः स्यान्निश्चयात्मिका ॥ २०॥

 

रजोंऽशैः पञ्चभिस्तेषां क्रमात्कर्मेन्द्रियाणि तु । वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे ॥ २१॥

 

तैः सर्वैः सहितैः प्राणोवृत्तिभेदात्स पञ्चधा ।

प्राणोऽपानः समानश्चोदानव्यानौ च ते पुनः ॥ २२॥

 

बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया ।

शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ॥ २३॥

 

प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रपद्यते ।

हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता ॥ २४॥

 

समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात्।

तदभावात्ततोऽन्ये तु कथ्यन्ते व्यष्टिसंज्ञया ॥ २५॥

 

तद्भोगाय पुनर्भोग्यभोगायतनजन्मने ।

पञ्चीकरोति भगवान्प्रत्येकं वियदादिकम् ॥२६॥

 

द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः ।

स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्च ते ॥ २७॥

 

तैरण्डस्तत्र भुवनं भोग्यभोगाश्रयोद्भवः।

हिरण्यगर्भः स्थूलेऽस्मिन्देहे वैश्वानरो भवेत् ॥ २८॥


तैजसा विश्वतां याता देवतिर्यङ्नरादयः।

ते पराग्दर्शिनः प्रत्यक्तत्त्वबोधविवर्जिताः ॥ २९॥

 

कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते।

नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते ।

व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ॥३०॥

 

सत्कर्मपरिपाकात्ते करुणानिधिनोद्धृताः।

प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम्॥ ३१॥

 

 उपदेशमवाप्यैवमाचार्यात्तत्त्वदर्शिनः ।

पञ्चकोशविवेकेन लभन्ते निर्वृतिं पराम् ॥३२॥

 

अन्नं प्राणो मनो बुद्धिरानन्दश्चेति पञ्च ते । कोशास्तैरावृतः स्वात्मा विस्मृत्या संसृतिं व्रजेत् ॥३३॥

 

स्यात्पञ्चीकृतभूतोत्थो देहः स्थूलोऽन्न संज्ञकः ।

लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह ॥ ३४॥

 

सात्त्विकैर्धीन्द्रियैः साकं विमर्शात्मा मनोमयः।

तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका ॥ ३५॥

 

कारणे सत्त्वमानन्दमयो मोदादिवृत्तिभिः ।

तत्तत्कोशैस्तु तादात्म्यादात्मा तत्तन्मयो भवेत् ॥३६॥

 

अन्वयव्यतिरेकाभ्यां पञ्चकोशविवेकतः।

स्वात्मानं तत उद्धृत्य परं ब्रह्म प्रपद्यते ॥ ३७॥

 

अभाने स्थूलदेहस्य स्वप्ने यद्भानमात्मनः ।

सोऽन्वयो व्यतिरेकस्तद्भानेऽन्यानवभासनम् ॥३८॥

 

 लिङ्गभाने सुषुप्तौ स्यादात्मनो भानमन्वयः ।

व्यतिरेकस्तु तद्भाने लिङ्गस्याभानमुच्यते ॥ ३९॥

 

तद्विवेकाद्विविक्ताः स्युः कोशाः प्राणमनोधियः।

ते हि तत्र गुणावस्थाभेदमात्रात्पृथक्कृताः ॥ ४०॥

 

सुषुप्त्यभाने भानं तु समाधावात्मनोऽन्वयः ।

व्यतिरेकस्त्वात्मभाने सुषुप्त्यनवभासनम् ॥४१॥

 

यथा मुञ्जादिषीकैवमात्मा युक्त्या समुद्धृतः।

शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते ॥ ४२॥

 

परापरात्मनोरेवं युक्त्या सम्भावितैकता ।

तत्त्वमस्यादिवाक्यैः सा भागत्यागेन लक्ष्यते ॥ ४३॥

 

जगतो यदुपादानं मायामादाय तामसीम्।

निमित्तं शुद्धसत्त्वां तामुच्यते ब्रह्म तद्गिरा ॥ ४४॥

 

यदा मलिनसत्त्वां तां कामकर्मादिदूषितम्।

आदत्ते तत्परं ब्रह्म त्वंपदेन तदोच्यते ॥ ४५॥

 

त्रितयीमपि तां मुक्त्वा परस्परविरोधिनीम् ।

अखण्डं सच्चिदानन्दं महावाक्येन लक्ष्यते ॥ ४६॥

 

सोऽयमित्यादिवाक्येषु विरोधात्तदिदन्तयोः।

त्यागेन भागयोरेक आश्रयो लक्ष्यते यथा ॥ ४७॥

 

मायाविद्ये विहायैवमुपाधी परजीवयोः।

अखण्डं सच्चिदानन्दं परं ब्रह्मैव लक्ष्यते ॥ ४८॥

 

सविकल्पस्य लक्ष्यत्वे लक्ष्यस्य स्यादवस्तुता ।

निर्विकल्पस्य लक्ष्यत्वं न दृष्टं न च सम्भवि ॥ ४९॥

 

विकल्पो निर्विकल्पस्य सविकल्पस्य वा भवेत्।

आद्ये व्याहतिरन्यत्रानवस्थात्माश्रयादयः ॥ ५०॥

 

इदं गुणक्रियाजातिद्रव्यसम्बन्धवस्तुषु ।

समं तेन स्वरूपस्य सर्वमेतदितीष्यताम् ॥५१॥

 

विकल्पतदभावाभ्यामसंस्पृष्टात्मवस्तुनि ।

विकल्पितत्वलक्ष्यत्वसम्बन्धाद्यास्तु कल्पिताः॥ ५२॥

 

इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् ।

युक्त्या सम्भावितत्वानुसन्धानं मननं तु तत् ॥५३॥

 

ताभ्यां निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत्।

एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥ ५४॥

 

ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् ।

निवातदीपवच्चित्तं समाधिरभिधीयते ॥ ५५॥

 

वृत्तयस्तु तदानीमज्ञाता अप्यात्मगोचराः ।
स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थितात् ॥५६॥

 

वृत्तीनामनुवृत्तिस्तु प्रयत्नात्प्रथमादपि ।

अदृष्टासकृदभ्याससंस्कारसचिवाद् भवेत् ॥५७॥

 

यथा दीपो निवातस्थ इत्यादिभिरनेकधा ।

भगवानिममेवार्थमर्जुनाय न्यरूपयत् ॥५८॥

 

अनादाविह संसारे सञ्चिताः कर्मकोटयः ।

अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ॥ ५९॥

 

धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः ।

वर्षत्येष यतो धर्मामृतधाराः सहस्रशः ॥ ६०॥

 

अमुना वासनाजाले निःशेषं प्रविलापिते ।

समूलोन्मूलिते पुण्यपापाख्ये कर्मसञ्चये ॥ ६१॥

 

वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते ।

करामलकवद्बोधमपरोक्षं प्रसूयते ॥ ६२॥

 

परोक्षं ब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम्।

बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥६३॥

 

अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम् । संसारकारणाज्ञानतमसश्चण्डभास्करः ॥ ६४॥

 

इत्थं तत्त्वविवेकं

विधाय विधिवन्मनः समाधाय ।

विगलितसंसृतिबन्धः

प्राप्नोति पारं पदं नरो न चिरात्॥६५॥

 

इति तत्त्वविवेकः समाप्तः ॥ १॥

No comments:

Post a Comment