Tuesday, 20 April 2021

वेदान्तानां तात्पर्यम्

 

 वेदान्तानां तात्पर्यम्

 

वेदान्तानान्तात्पर्यङ्किमित्यत्रास्ति वैमत्यम्। निखिलानामपि तेषां कर्मपरत्वं कैश्चिद् भण्यते चेदपरैरुपास्तिपरता ।

 कैश्चिद् द्वैतपरत्वं चेद् विशिष्टाद्वैतपरत्वमन्यैः।आधुनिकाश्च केचित् सर्वेषामपि मतानां समवायमिच्छन्ति।

वेदान्ता  केवलमद्वैतपरा अपि तु द्वैतपरा विशिष्टाद्वैतपरा कर्मपरा उपास्तिपरा चेति ते निगदन्ति।

तत्राद्वैत एव वेदन्तानां तात्पर्यं नान्यत्रेति संप्रदायविदो निश्चिन्वन्ति।

वेदान्ते तावद् उपक्रमादिषड्लिङ्गान्यद्वैतपराण्येव लभ्यन्ते नान्यपराणि। अद्वैतावगमस्यैव मोक्षहेतुत्वान्न कर्मपरत्वं वोपास्तिपरत्वं वा तेषां निर्णेतुं शक्यते।

अपि च नेह नानास्ति किञ्चनेत्यादीनि भेदनिन्दावाक्यान्यपि वेदान्तेषु तत्र तत्र श्रूयन्ते येन वेदान्तस्य  द्वैतबोधकत्वाभावः सुनिश्वितो भवति।

    वेदान्तस्त्वाधुनिकैर्द्वैतादिसकलमतविधायक इति कल्प्यते।

 ते प्रष्टत्याः--

किमेकेनैव वाक्येनाद्वैतं तद्भिन्नान्यपि मतानि बोध्यन्त उत भिन्नैरेव वाक्यै:?

तत्राद्योनुपपन्नः। एकस्यैव प्रामाणिकस्य वाक्यस्य विरुद्धनानार्थबोधकत्वं न सम्भवति। तथा कल्प्यते चेत् वेदान्तानां प्रामाण्यभङ᳭ग एव स्यात्।

अपि  पारमार्थिकस्य वस्तुनोद्वैतत्वं  भेदवत्वं   सम्भवति। युगपदेकस्य वस्तुनो  विरुद्धनानाधर्मवत्त्वकल्पनं न्यायविरुद्धम्।

तस्मादेकस्यैव महावाक्यस्य सर्वमतबोधकत्वं परिहृतम्।

तत्वमस्यादीनां महावाक्यानामेकत्रैव तात्पर्यं स्वीकार्यम्।

तदप्युपक्रमादिलिङ्गबलाद् अद्वैत एव।

यदि भिन्नैरेव वाक्यैर्भिन्नानि मतानि बोध्यन्त इति तैषामभिप्रायस्तर्हि  एवं प्रष्टव्याः -

किम् ज्ञेयपरैर्वाक्यैर्वोपास्तिपरैर्वाक्यैर्वाद्वैतभिन्नानि मतानि प्रतिपाद्यन्ते?  नाद्यः। ज्ञेयपराणां तत्त्वमस्मादिवाक्यानाम् अद्वैतमात्रपरत्वात् ।

 तत्प्रकरणपठितानां सृष्ट्यादिवाक्यानां न स्वार्थे तात्पर्यं किन्त्वद्वैतबोधन एवेति  तेषां द्वैतादिपरत्वम्। अन्येषामपि तयोरन्यः पिप्पलं स्वाद्वत्तीत्यादीनां वाक्यानामप्यविद्यादशायां सिद्धस्यैव द्वैतस्यानुवादकत्वम्  तु  द्वैतबोधकत्वम् । तेषाम् द्वैतबोधकत्वे प्रकरणविरोध: स्यात्।

उपास्तिपराण्यपि वाक्यानि लोकसिद्धं द्वैतम् अनूद्याविद्यावत उपास्तीर्विदधति। तेषां वाक्यानाम् उपास्तिविधान एव पर्यवसानान्न द्वैतस्य बोधकत्वम्।

 

ननु यथा निर्गुणस्य ब्रह्मणः पारमार्थिकत्वं निर्गुणवाक्यैरवधार्यते तथैव उपस्तिप्रकरणे श्रूयमणैः सगुणवाक्यैस्तस्यैव

सगुणत्वमपि कुतो नावधार्यत इति चेत् ? 

नैवम्। उपास्तिप्रकरणस्थैर्वाक्यैस्तद्गुणानां पारमार्थिकत्वं न विवक्ष्यते। तेषामुपास्तिविधिपरत्वाद् गुणानां पारमार्थिकत्वाभावेप्युपास्तेः सुसम्पादत्वात्। निर्गुणवाक्यानां तु ज्ञेयपरत्वाद् तदुपदिष्टस्यैव पारमार्थिकत्वमुररीकार्यम्।

किञ्च तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासत इति श्रूतिरेव तस्य सगुणत्वं निराकरोति।

तस्मादुपास्तिपरैरपि वाक्येर्न वेदान्तानां द्वैतादिपरत्वम् सिध्यति।

ननु वेदन्तेषु उपास्तिपराणि ज्ञेयपराणि च वाक्यानि दृश्यन्त इति यथा अद्वैते तेषां तात्पर्यं तथैवोपास्तिविधानेपि किं नाङ्गीक्रियत इति चेत्?

नैवम्। उपास्तिविधीनां प्राधान्याभावात् ।

तमेव विदित्वा अतिमृत्युमेतीति ज्ञानादेव परमपुरुषार्थसिद्धेरुपास्तीनां प्राधान्यं नोपपद्यते।

तस्मान्निर्गुणप्रकरणापेक्षया सगुणप्रकरणानां गौणत्वं निश्चेयम्। ज्ञानयोग्यतासिद्ध्यर्थानि  ह्युपासनानि न तु साक्षन्मोक्षसाधनानि।

तस्माद् अज्ञानदशायां सिद्धं द्वैतम् अनूद्य निर्गुणेपि ब्रह्मणि गुणानारोप्योपास्तीर्विधत्ते श्रुतिः। उपासनया योग्यतामापन्नं प्रति निर्गुणमेवात्मतत्वम् अवबोधयति। तस्मादुपासने वा तद्विषये सगुणे ब्रह्मणि वा न वेदन्तानां पर्यवासानं किन्त्वद्वैत एव परमतात्पर्यवन्ति निखिलान्यपि वेदशिरोवचांसि।

No comments:

Post a Comment