नेति नेति
नेति नेतीति वीप्सया प्रतिषेधार्हं सर्वं प्रतिषेधति श्रुतिः।
ननु किं प्रतिषेधार्हम् इति चेन्निखिलं दृश्यजातम् इति ब्रूमः। अज्ञैरात्मत्वेनाभिमन्यमानान्यपि देहादीनि
दृश्यान्येव सन्ति प्रतिषेधार्हाणि भवन्ति।
सेयं श्रुतिः निषेध्यं दृश्यजातं निषिध्य प्रतिपेधानर्हे परमात्मनि पर्यवस्यति।
सकलप्रतिषेधस्यापि साक्षिभूतः सन्नयमात्मा प्रतिषेधं नार्हति।
प्रतिषिद्धे समस्ते दृश्यजाते त्वविद्या तत्कार्याणि च प्रतिषिद्धानि भवन्तीत्त्यात्मनः संसारधर्माभावः सिध्यति।
तार्किककल्पितानामन्येषां पदार्थानामपि दृश्यत्वादेव प्रतिषेध्यकोटौ प्रवेशोपरिहार्य इत्यद्वैत एव
वेदन्तानां परमतात्पर्यमनेन वचसा निश्चितं भवति।
ननु निषेधवचसैवाद्वैतस्य सिद्धौ किं विधिमुखैः सत्यादिवाक्यैरिति चेत्?
नैवम्। निषेधवचसा जगतोभावः साक्षात् प्रतीयते। अनुभूयमानस्य जगतः शशविषाणवदत्यन्तासत्त्वावगमश्च नोपपद्यते। तस्मादनुभूयमानत्वे सत्यसत्त्वरुपं मिथ्यात्वं सर्वस्यापि जगतो नेति नेतीति वचसा बोद्ध्यते। निरधिष्ठानस्य कल्पनानुपपत्ते:, निस्साक्षिकस्य
निषेधस्याप्यनुपपत्तेः, जगन्निषेधावधिभूतं तदतिष्ठानं किञ्चिदर्थाज्ज्ञायते।
तस्मान्नेतिनेतिवचसा जगतो मिथ्यात्वं मुखतो ज्ञाप्यते अर्थादेवाद्वितीयं ब्रह्म ग्राह्यते। यावद् अद्वितीयस्य ब्रह्मण: सत्यत्वं लक्षणं
तेन जीवस्यैक्यं मुखतो न प्रतिपाद्यते श्रुत्या, तावत् प्रत्यगभिन्नस्य परमात्मन: सत्त्वं स्वरुपं च सन्दिहानं प्रति श्रूतिः सत्यादिवाक्यैः
विधिमुखेन प्रत्यगभिन्नं चिद्रूपं ब्रह्म ग्राहयति।
तस्मान्न विधिप्रधानानां सत्यादिवाक्यानां नैरर्थक्यं शङ्कनीयम्।
॥ ॐ श्री हरये नमः।।
ReplyDeleteअति उत्कृष्ट सार गर्भित वेदान्त के निषेध मुख का प्रतिपादन
जिसे संसार स्वप्न लगता है उसके लिये निषेध सरल है और जिसके लिये संसार सत्य लगता है उसके लिये विधि मुख उचित है "वासुदेवः सर्वम्"
"सर्वं खल्विदं ब्रह्म" |