Sunday, 4 October 2020

पूर्णावतारविचारः

 

कृष्णस्तु भगवान् स्वयम् इति श्रीमद्भागवतवचनात् श्रीकृष्णस्यैव पूर्णावतारत्वं प्रतीयते तद्बिन्नानां चांशिकत्वम्। तत्रावताराणां पूर्णत्वम् आंशिकत्त्वं च कथमिति विचार्यम्।

त्रिगुणात्मिका माया रजस्तमोभिभूतसत्त्वा सती जीवोपाधिः, विशुद्धसत्त्वप्रधाना सतीश्वरोपाधिश्च भवति। तस्मादीश्वरः शुद्धसत्त्वप्रधानः सर्वज्ञः सर्वशक्तिमान् मायाधीशश्च भवति। सः स्ववशवर्तिन्या मायया एव लोकानुग्रहार्थं शरीरमुपादित्सुः स्वेच्छया मायायाः रजोंशं तमोंशं चेषच्चालयति। तत एवावतारकार्यसंपादनसमर्थं शरीरमाविर्भवति। तमेव शरीरमधिष्ठाय परमेश्वरः दुष्कृतां विनाशं साधूनां परित्राणं सनातनस्य धर्मस्योपदेशं च विदधाति।

अवतीर्णोयमीश्वरो मायायाः तमोंशे वर्तमानस्यावरणश्क्तेः प्रभावात् कञ्चित्कालं स्वं सार्वज्ञ्यं याथात्म्यं च विस्मरेदपि। रजोंशे वर्तमानस्य विक्षेपशक्तेर्माहात्म्यात् स कामक्रोधादिकमप्यनुभवेत्। यथा कश्चन धृतवेषो नटो नटनव्यग्रः सन्नात्मानं कदाचिद् विस्मरति। तदा स जीववदेवाचरेत्। यथा हृतभार्यः श्रीरामचन्द्रः करुणं रुरोद, जानक्याश्च पावित्र्यं संशिश्ये।

यथा कश्चन स्वेच्छया पीतायाः सुरायाः मत्तः सन् तत्प्राबल्यसमाप्तौ सचेतो भवति, तथा स्वेच्छया चालितयोः रजस्तमसोः बलादेवेश्वरः कञ्चित्कालं जीववदाचरति, तयोर्वेगस्य समाप्तौ स स्वभावं प्रपद्यते।

तदुक्तमाचार्यचरणैः सर्वज्ञात्ममुनिभिः संक्षेपशारीरके - संकल्पपूर्वकमभूद् रघुनन्दनस्य नाहं विजान इति कंचन कालमेतत्। ब्रह्मोपदेशमुपलभ्य निमित्तमात्रं तच्चोत्ससर्ज स कृते सति देवकार्ये॥ 2.182

तत्रावतारभेदमनु रजस्तमसोरपि तारतम्यं भवेत्। मत्स्यादिषु तयोराधिक्यं चेत् श्रीरामे तदल्पत्त्वम्। यत्र तयोराधिक्यं तत्रेश्वरस्य जीवसादृश्यस्याप्याधिक्यं प्रतीयते। जीवसादृश्यप्रतीतेरेवावतारः स्वयमीश्वरोपि सन् तदंश इव भवति न तु वस्तुगत्या अंश एवेत्यत्र अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममाययेति स्मृतिरेव प्रमाणम्। तत्र द्विः श्रूयमाणं शत्रन्तमीश्वरस्यैव सम्भवमवगमयति न तु तदंशस्य। अजस्याव्ययात्मनो निरंशत्वान्न तदंशाशङ्कापि समुद्भवति।

श्रीकृष्णे तु तमःकार्यस्यावरणस्यात्यल्पत्वात् तस्मिन्नल्पीयो जीवसादृश्यमिति कृष्णस्तु भगवान् स्वयमिति वचनं शोभतेतराम्।

 

 

 

 

 

 

 

 

No comments:

Post a Comment