Sunday, 4 October 2020

उपमानम्

प्रमाणेष्वन्यतममुपमानमुपमितिकरणम्। उपमितिश्च सादृश्याधीनः शब्दार्थसम्बन्धबोधः।

तथाहि गवयपदवाच्यमविद्वान् कश्चन ग्रामीणः कस्मादप्यारण्यकपुरुषाद् गोसदृशो गवय इत्यतिदेशवाक्यं श्रुत्वारण्यं प्रविशति। तत्र पिण्डविशेषं पश्यतस्तस्य गोसद्शोयं पिण्ड इति गवयानुयोगिकगोसादृश्यमतिरुदेति। ततोतिदेशवाक्यस्मरणपूर्वकमुत्पद्यमाना पिण्डोयं गवयपदवाच्य इति बुद्धिरेवोपमितिः। तत एतदसाधारणधर्मावच्छिन्नाः सर्वे पिण्डा गवयपदवाच्याः, एतदसाधारणधर्मावच्छिन्नत्वाद्, यथा मदीयगोनिष्ठासाधारणधर्मावच्छिनाः सर्वे गोपदवाच्या इति गवयत्त्वजातिमत्सु गवयशब्दसम्बन्धनिश्चयः। अत्र गवयदर्शनानन्तरमुत्पन्नं सादृश्यज्ञानमेवोपमानाख्यं करणम्। अवान्तरवाक्यार्थस्मरणं व्यापारः।

केषाञ्चित्त्वयं गवय इति ज्ञानं नोपमितिः किन्तु गवयो गवयपदवाच्य इति गवयत्त्वावच्छिन्ने गवयशब्दवाच्यत्त्वधीरेवोपमिति मतम्। किन्तु सर्वेषां गवयत्वावच्छिन्नानां तर्हि प्रत्यक्षाभावात् तन्न सामञ्जस्यं भजते। यत्र पिण्डे सादृश्यप्रतीतिस्तत्रैव गवयशब्दसम्बन्धस्य सुबोधत्त्वादस्मदीया प्रक्रिया न्याय्या।

No comments:

Post a Comment